या
कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या
वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या
ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा पूजिता
सा मां
पातु सरस्वति भगवती निःशेषजाड्यापहा ॥१॥
दोर्भिर्युक्ता
चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना
हस्तेनैकेन
पद्मं सितमपि च शुकं पुस्तकं चापेरण ।
भासा
कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे
वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥
सुरासुरसेवितपादपङ्कजा
करे
विराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी
कमलासनस्थिता
सरस्वती
नृत्यतु वाचि मे सदा ॥३॥
सरस्वती
सरसिजकेसरप्रभा
तपस्विनी
सितकमलासनप्रिया ।
घनस्तनी
कमलविलोललोचना
मनस्विनी
भवतु वरप्रसादिनी ॥४॥
सरस्वति
नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं
करिष्यामि सिद्धिर्भवतु मे सदा ॥५॥
सरस्वति
नमस्तुभ्यं सर्वदेवि नमो नमः ।
शान्तरूपे
शशिधरे सर्वयोगे नमो नमः ॥६॥
नित्यानन्दे
निराधारे निष्कलायै नमो नमः ।
विद्याधरे
विशालाक्षि शूद्धज्ञाने नमो नमः ॥७॥
शुद्धस्फटिकरूपायै
सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि
चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥८॥|
मुक्तालङ्कृतसर्वाङ्ग्यै
मूलाधारे नमो नमः ।
मूलमन्त्रस्वरूपायै
मूलशक्त्यै नमो नमः ॥९॥
मनो
मणिमहायोगे वागीश्वरि नमो नमः ।
वाग्भ्यै
वरदहस्तायै वरदायै नमो नमः ॥१०॥
वेदायै
वेदरूपायै वेदान्तायै नमो नमः ।
गुणदोषविवर्जिन्यै
गुणदीप्त्यै नमो नमः ॥११॥
सर्वज्ञाने
सदानन्दे सर्वरूपे नमो नमः ।
सम्पन्नायै
कुमार्यै च सर्वज्ञे नमो नमः ॥१२॥
योगानार्य
उमादेव्यै योगानन्दे नमो नमः ।
दिव्यज्ञान
त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥
अर्धचन्द्रजटाधारि
चन्द्रबिम्बे नमो नमः ।
चन्द्रादित्यजटाधारि
चन्द्रबिम्बे नमो नमः ॥१४॥
अणुरूपे महारूपे विश्वरूपे नमो नमः ।
अणिमाद्यष्टसिद्ध्यायै
आनन्दायै नमो नमः ॥१५॥
ज्ञानविज्ञानरूपायै
ज्ञानमूर्ते नमो नमः ।
पद्मदा
पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै
परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥
महादेव्यै
महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णुशिवायै
च ब्रह्मनार्यै नमो नमः ॥१८॥
कमलाकरपुष्पा
च कामरूपे नमो नमः ।
कपालि
कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥
सायं
प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते ।
चोरव्याघ्रभयं
नास्ति पठतां शृण्वतामपि ॥२०॥
इत्थं
सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् ।
सर्वसिद्धिकरं
नॄणां सर्वपापप्रणाशणम् ॥२१॥
**************************************
No comments:
Post a Comment